|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.266. अध्यायः 266
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति महेश्वरादिनामनिर्वचनपूर्वकं शिवमहिमोक्तिः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
वासुदेव उवाच।
युधिष्ठिर महाबाहो महाभाग्यं महात्मनः।
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे॥ 13-266-1(92069)
वदन्त्युग्रं महादेवं तथा स्थाणुं महेश्वरम्।
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा॥ 13-266-2(92070)
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः।
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः॥ 13-266-3(92071)
उग्रा घोरा तनुर्याऽस्य सोऽग्निर्विद्युत्स भास्करः।
शिवा सौम्या च या त्वस्य धर्मस्त्वापोथ चन्द्रमाः॥ 13-266-4(92072)
आत्मनोऽर्धं तु तस्याग्निः सोमोऽर्धं पुनरुच्यते।
ब्रह्मचर्यं चरत्येका शिवा चास्य तनुस्तथा॥ 13-266-5(92073)
याऽस्य घोरतमा मूर्तिर्जगत्संहरते तथा।
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः॥ 13-266-6(92074)
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते॥ 13-266-7(92075)
देवानां सुमहान्यच्च यच्चास्य विषयो महान्।
यच्च विश्वं जगत्पाति महादेवस्ततः स्मृतः॥ 13-266-8(92076)
धूम्ररूपा जटा यस्माद्धूर्जटीत्यत उच्यते॥ 13-266-9(92077)
स मेधयति यन्नित्यं सर्वान्वै सर्वकर्मभिः।
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः॥ 13-266-10(92078)
दहत्यूध्वं स्थितो यच्च प्राणान्नॄणां स्थिरश्च यत्।
स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः॥ 13-266-11(92079)
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः॥ 13-266-12(92080)
विश्वेदेवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः।
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोपि वा।
चक्षुषः प्रभवं तेजः सर्वतश्चक्षुरेव तत्॥ 13-266-13(92081)
सर्वथा यत्पशून्पाति तैश्च यद्रमते सह।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः॥ 13-266-14(92082)
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम्।
`भक्तानुग्रहणार्थाय गूढलिङ्गस्ततः स्मृतः।'
महयत्यस्य लोकश्च प्रियं ह्येतन्महात्मनः॥ 13-266-15(92083)
विग्रहं पूजयेद्यो वै लिङ्गं वाऽपि महात्मनः।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते॥ 13-266-16(92084)
ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा।
लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम्। 13-266-17(92085)
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः।
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः॥ 13-266-18(92086)
एष एव श्मशानेषु देवो वसति निर्दहन्।
यजन्ते ये जनास्तत्र वीरस्थाननिषेविणः॥ 13-266-19(92087)
विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह।
स च वायुः शरीरेषु प्राणपालः शरीरिणाम्॥ 13-266-20(92088)
तस्य घोराणि रूपाणि दीप्तानि च बहुनि च।
लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः॥ 13-266-21(92089)
नामधेयानि देवेषु बहून्यस्य यथार्थवत्।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा॥ 13-266-22(92090)
वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम्।
व्यासेनोक्तं च यच्चापि उपस्थानं महात्मनः॥ 13-266-23(92091)
प्रदाता सर्वलोकानां विश्वसाक्षी निरामयः।
ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे॥ 13-266-24(92092)
प्रथमो ह्येष देवानां मुखादग्निमजीजनत्।
ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि॥ 13-266-25(92093)
विमोक्षयति तुष्टात्मा शरण्यः शरणागतान्।
आयुरारोग्यमैश्वर्यं हितं कामांश्च पुष्कलान्॥ 13-266-26(92094)
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः।
शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते॥ 13-266-27(92095)
स एव स्थापको नित्यं त्रैलोक्यस्य शुभाशुभे।
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते॥ 13-266-28(92096)
महेश्वरश्च लोकानां महातामीश्वरश्च सः।
बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत्।
तस्य देवस्य यद्वक्त्रं समुद्रे वडंवामुखण्॥ ॥ 13-266-29(92097)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्षष्ट्यधिकद्विशततमोऽध्यायः॥ 266 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-266-4 सा अग्निविद्युत्समप्रभेति क.ट.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|